SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 459 // तीव्रवेदनार्तेनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्चपूर्वमव्यापाद-नमभ्युपगतमत: श्रुतस्कन्धः 1 शीतलेति, मूहुर्ताच्चापगतवेदन: पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तु अष्टममध्ययनं विमोक्षम्, शीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततःशेषसंरक्षणार्थं विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशं प्रथमोद्देशकः प्रतिपद्यते ततो गच्छ एव तिष्ठतो घट्टना दुर्वचनादिभिः कदर्थना क्रियते, यदि च तथापि न ज्वलति ततः शुद्ध इतिकृत्वा नियुक्तिः 269-272 नशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति // 268 // किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् अनशनस्वरूप: हृदि व्यवस्थाप्याह नि०- निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं / बारससंवच्छरियं सो संलेहं अह करेइ // 269 // नि०- चत्तारि विचित्ताइं विगईनिजूहियाइं चत्तारि / संवच्छरे य दुन्नि उ एगंतरियं तु आयामं / / 270 // नि०- नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं / अन्नेऽवि य छम्मासे होइ विगिटुंतवोकम्मं / / 271 // नि०- वासं कोडीसहियं आयाम काउ आणुपुव्वीए। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ // 272 / / सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा निष्पादिता योग्यतामापादिताः शकुनिनेवाण्डकं प्रयत्नेन, ततोऽसौ अथ अनन्तरं / द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा- चत्वारि वर्षाणि विचित्राणि विचित्रतपोऽनुष्ठानवन्ति भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते- तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थं षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते,
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy