________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 458 / / श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः नियुक्ति: 268 अनशनस्वरूप: निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यापरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निष्पाद्याऽपरमाचार्यं विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जितो गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात्, एवमुपाध्याय: प्रवर्त्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिका भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् // 267 // द्रव्य- संलेखनायां तु केवलायां दोषसम्भवादित्याह नि०- पडिचोइओय कुविओ रण्णो जह तिक्ख सीयला आणा। तंबोले य विवेगो घट्टणया जा पसाओ य॥२६८॥ प्रतिचोदितः सन्नाचार्येण पुनरपि संलिखेत्येवमभिहित: कुपितः क्रुद्धो यथा च राज्ञः पूर्वं तीक्ष्णाज्ञा पश्चाच्छीतलीभवति एवमाचार्यस्यापि, तम्बोले नागवल्लीपत्रे च कुथिते शेषरक्षणाय विवेकः परित्याग: कार्यः, तत: घट्टना कदर्थना कार्या, तत्सहिष्णो: पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः, भावार्थस्तु कथानकादवसेयः, तच्चेदं-एकेन साधुना द्वादशवर्षसंलेखनया त्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि- यथाऽद्यापि संलिख, ततोऽसौकुपित: त्वगस्थिशेषामङ्गली भुङ्क्त्वा दर्शयति, किमत्राशुद्धमिति?, आचार्योऽपि येनाभिप्रायेणोक्तवाँस्तमाविष्करोति- अत एवाशुद्धो भवान्, यतो वचनसमनन्तरमेवाङ्गलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाऽऽचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथाकस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते चस्ववैद्योपदिष्टानुष्ठानवतोऽपि न स्वस्थतामियाताम्, पुनरागन्तुकेन वैद्यनाभिहित:स्वस्थीकरोमि भवन्तं यदि मुहूर्तं वेदनां तितिक्षसे वेदनार्त्तश्च न मांघातयसीति, राज्ञा चाभ्युपगतम्, अञ्जन- प्रक्षेपानन्तरोद्भूत (r) स्ववैद्योपन्यस्तानुष्ठान० (मु०)। // 458 //