________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 457 // श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, प्रथमोद्देशक: नियुक्तिः 266-267 अनशनस्वरूप: आर्यसमुद्राणां मरणमभूद्, अयमादेशो- दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपआवसमुडाणा गमनेन तेषां मरणमभूदिति, एतद्-अपराक्रमं मरणं यदार्यसमुद्राणां सजातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥२६५ / / भावार्थस्तुकथानकादवसेयः, तच्चेदं-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन्, पश्चाच्च तैर्जवाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि // साम्प्रतं व्याघातिममाह नि०- वाघाइयमाएसो अवरुद्धो हुन्ज अन्नतरएणं / तोसलि महिसीइ हओ एवं वाघाइयं मरणं // 266 // विशेषेणाघातो व्याघात:-सिंहादिकृत: शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमम्, कश्चित्सिंहाद्यन्यतरेणावरुद्धो भवेद्-आरब्धो भवेत् तेन यन्मरणं तद्व्याघातिमम्, तत्र वृद्धवादायात आदेशो- दृष्टान्तः, यथा- तोसलिनामाचार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु कथानकादवसेयः, तच्चेदं- तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बढ्यो महिष्यः सम्भवन्ति, ताभिश्व कदाचिदेकः साधुरटव्यन्तर्वारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति // 266 / / साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह नि०- अणुपुव्विगमाएसोपव्वज्जासुत्तअत्थकरणं च / वीसजिओय णितो मुक्को तिविहस्स णिच्चस्स / / 267 / / आनुपूर्वी- क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ?- आदेशो- वृद्धवादः, सचायम्, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानम्, तत: सूत्रकरणं पुनरर्थग्रहणम्, ततस्तदुभयनिर्मात: सुपात्रनिक्षिप्तसूत्रार्थः गुर्वादिनाऽनुज्ञातोऽभ्युद्यतमरणत्रिकान्यतराय निर्यन् (r) अवरद्धो (मु०)। 0 ०णापराद्धो (मु०)। // 457 //