SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 456 // अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः नियुक्तिः 264-265 अनशनस्वरूप: पराक्रमः सामर्थ्यं सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात्, तद्विपर्यये चापराक्रमे- जङ्घाबलपरिक्षीणे तद्भक्तपरिजेङ्गितमरणपादपोपगमनभेदात्रिविधमपिमरणंसपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि व्याघातिमेतरभेदात् द्विधा भवेत्, तत्र व्याघात: सिंहव्याघ्रादिकृतोऽव्याघातस्तु प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या विपक्त्रिममायुष्कक्षयमनुभवतोयो भवति सोऽव्याघात इहानुपूर्वीत्युक्तम्, तत्र परमार्थोपक्षेपेणोपसंहरति व्याघातेनानुपूर्व्या वासपराक्रमस्यापराक्रमस्य वामरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतया समाधिमरणमेव कर्त्तव्यम्, भक्तपरिज्ञेङ्गितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयम्, न वेहानसादिकं बालमरणं कर्त्तव्यमिति गाथार्थः / / 263 // तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाह नि०-सपरक्कममाएसोजह मरणं होइ अज्जवइराणं / पायवगमणंच तहा एवं सपरक्कम मरणं // 264 // सह पराक्रमेण वर्त्तत इति सपराक्रमम्, किं तत्?- मरणं आदिश्यते- इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो यमैतिहमाचक्षते,स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यम्, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः // 264 // भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृतकर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावर्त्तशिखरिणि पादपोपगमनमकारीति / साम्प्रतमपराक्रमं दर्शयितुमाह नि०- अपरक्कममाएसोजह मरणं होइ उदहिनामाणं / पाओवगमेऽवि तहा एयं अपरक्कम मरणं / / 265 // न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रमम्, किं तत्? - मरणम्, तच्च यथा जङ्घाबलपरिक्षीणानामुदधिनाम्नां // 456 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy