________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 455 // | श्रुतस्कन्धः१ | अष्टममध्ययन विमोक्षम्, प्रथमोद्देशकः नियुक्तिः 261-263 अनशनस्वरूपः नि०-जीवस्स अत्तजणिएहि चेव कम्मेहिं पुव्वबद्धस्स / सव्वविवेगोजो तेण तस्स अह इत्तिओ मुक्खो।।२६१ // जीवस्यासङ्खयेयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमादकषाययोगपरिणतेन जनितानिबद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षया तेन कर्मणा सर्वविवेकःसर्वाभावरूपतया यो विश्लेषस्तस्य जन्तोः अथे त्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः॥२६१॥ उक्तो भावविमोक्षः, स च यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्यम्, तत्र कारणे कार्योपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह नि०- भत्तपरिन्ना इंगिणि पायवगमणंच होइ नायव्वं / जो मरइ चरिममरणं भावविमुक्खं वियाणाहि // 262 // भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदं च चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यम्, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य, पादपस्येवोप-सामीप्येन गमनं- वर्त्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, यो हि भवसिद्धिकश्चरमअन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन म्रियते, नान्येन वैहानसादिना बालमरणेनेत्येतच्चानन्तरोक्तं मरणंचेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावविमोक्षं विजानीहीति गाथार्थः॥२६२॥ साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह नि०- सपरिक्कमे य अपरिक्कमए य वाघाय आणुपुव्वीए / सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं // 263 //