SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध:१ षष्ठमध्ययनं श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 448 // द्युतं, पञ्चमोद्देशकः सूत्रम् 192 उपसर्गसन्मान धूननम् शीतीभूतो। यस्त्वसङ्ख्यातवान्पेशलं धर्मं मिथ्यादृष्टिरसौन निर्वातीति दर्शयितुमाह- इतिर्हेतौ यस्माद्विपरीतदर्शनो मिथ्यादृष्टिः सङ्गवान्न निर्वाति तस्मात् सङ्ग मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गं विपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह- त एवं सङ्गिनो नरा: सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह- यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्च्छिताः कामजै: शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्- संयमान्निःसङ्गात्मकात् नो परिवित्रसेत् न संयमानुष्ठानाद्विभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङ्गिन इति / कस्य पुनः संयमान्न परिवित्रसनं सम्भाव्यत इत्याह- यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गा:- आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात् / प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः सर्वतः सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरभ्मा:?-येष्विमे ग्रन्थग्रथिता विषण्णा: कामभराक्रान्ता जना लूषिणो लूषणशीला: हिंसका अज्ञानमोहोदयात् न परिवित्रसन्ति न बिभ्यति, यो ह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति / यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह- स महामुनिः पूर्वव्यावर्णितस्वरूपो वान्त्वा त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः, ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रम वाऽऽश्रित्यायमुपन्यास इति, चकारोहीतरेतरापेक्षया समुच्चयार्थः। स एवं क्रोधादीन् वान्त्वा मोहनीयंत्रोटयति, सचैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्ट:-अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत् पूर्वोक्तम् // 192 // // 448 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy