________________ श्रीआचाराड नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 449 // यदि वैतद्वक्ष्यमाणमित्याह श्रुतस्कन्धः१ ____ कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्ठी कालोवणीए कंखिज्ज कालं जाव षष्ठमध्ययन धुतं, सरीरभेउ / / सूत्रम् 193 // तिबेमि॥६-५॥धूताध्ययनम् // 6 // पञ्चमोद्देशकः कायः औदारिकादित्रयं घातिचतुष्टयं वा तस्य व्याघातो विनाशः, अथवा चीयत इति कायस्तस्य विशेषेणाङ्ग- सूत्रम् 193 उपसर्गसन्मान मर्यादयाऽऽयुष्कक्षयावधिलक्षणया पातो व्यापात:- शरीरविनाश: एष सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्रामशिरसित धूननम् छपरानीकनिशाताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकार विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद्, अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति / किंच-विविधं परीषहोपसगैर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसर्ग: फलकवदवतिष्ठते न कातरीभवति, तथा कालेनोपनीत: कालोपनीतो- मृत्युकालेनात्मवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिले पादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्क्षद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति // 193 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्यादिकं पूर्ववदिति, पञ्चमोद्देशकः, तत्समाप्तौ समाप्तं धूताख्यं षष्ठमध्ययनमिति // ग्रं०८३५॥ __ 0 विओपाए (प्र०)। // 449 //