SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ षष्ठमध्ययनं श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 447 // पञ्चमोद्देशकः सूत्रम् 192 उपसर्गसन्मान धूननम् मानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्मं कथयेदिति, तद्यथा-यदि लौकिक कुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा तत: पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभव: स्यात्, उक्तं च- जे उ दाणं पसंसंति, वहमिच्छंति पाणिणं। जे उणं पडिसेहिति, वित्तिच्छेअंकरिति ते // 1 // तस्मात्तद्दानावटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेद-2 सावधानुष्ठानं चेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतद्दृष्टान्तद्वारेण दर्शयति- यथाऽसौ द्वीपोऽ-8 सन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशत: वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोपदिष्टेन कथाविधानेन धर्मकथां कथयन् कांश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति, केषाञ्चित्प्रकृतिभद्रकतामापादयति / किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह- एव मिति वक्ष्यमाणप्रकारेण स शरण्यो महामुनिर्भावोत्थानेन संयमानुष्ठानुरूपेण उत्-प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति स्निहो न स्निहोऽस्निह:-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचल: परीषहोपसर्गवातेरितोऽपीति, तथा चल: अनियतविहारित्वात्, तथा संयमाहिर्निर्गता लेश्या- अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूत: परि- समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिव्रजेदित्याह- संख्याय अवधार्य पेशलं शोभनं धर्मं अविपरीतार्थं दर्शनं- दृष्टिः सदनुष्ठानं वासा यस्यास्त्यसौ दृष्टिमान्, सच कषायोपशमात् क्षयाद्वा, परिः- समन्तान्निर्वृतः * ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम् / ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते // 1 // 7 यथोद्दिष्टेन (मु०)। // 447 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy