________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ च, तथा सर्वेषां सत्त्वानां तिर्यङ्नरामराणां संसारे क्लिश्यमानतया करुणास्पदा नामेकार्थिकानि वैतानि प्राणादीनि वचनानि श्रुतस्कन्धः१ इत्यतस्तेषांक्षान्त्यादिकंदशविधं धर्मं यथायोगंप्रागुपन्यस्तंशान्त्यादिपदाभिहितं अनुविचिन्त्य स्वपरोपकाराय भिक्षणशीलो। षष्ठमध्ययनं द्युतं, भिक्षुर्धर्मकथालब्धिमान् आचक्षीत प्रतिपादयेदिति // 191 // यथा च धर्मं कथयेत्तदाऽऽह पञ्चमोद्देशकः ___ अणुवीइ भिक्खूधम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाई भूयाइंजीवाइंसत्ताइं आसाइजा सूत्रम् 192 उपसर्गसन्मान से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुणी, धूननम् एवं से उट्ठिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए संक्खाय पेसलं धम्म दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामक्वंता तम्हा लूहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सव्वओसव्वप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, सेवंता कोहं च माणं य मायंच लोभंच एस तुट्टेवियाहिए त्तिबेमि।सूत्रम् 192 // स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्मं पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाण: आङिति मर्यादया / यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत्, तथा धर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत्, यदिवाऽऽत्मन आशातना द्विधा- द्रव्यतो भावतश्च द्रव्यतो यथाऽऽहारोपकरणादेव्यस्य कालातिपातादिकृताऽऽशातनाबाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुश्रूषं आशातयेद्-हीलयेद्, यत: परो हीलनया कुपित सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तेतेति, अतस्तदाशातनां वर्जयन् धर्मं ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्- बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातक: परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्य