SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 445 // द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्म श्रुतस्कन्धः१ विभजेत्, यदिवा कोऽयं पुरुष:कं नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा? एवं विभजेत्, तथा कीर्तयेद्वतानुष्ठानफलम्, षष्ठमध्ययन द्युतं, कोऽसौ कीर्तयेद्?- वेदविद्, आगमविदिति / नागार्जुनीयास्तु पठन्ति जे खलु समणे बहुस्सुए वब्भागमे आहरणहेउकुसले पञ्चमोद्देशकः धम्मकहालद्धिसंपन्ने एवं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवित्तए इति, सूत्रम् 191 उपसर्गसन्मान कण्ठ्यम् / स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-स आगमवित् स्वसमयपरसमयज्ञः उत्थितेषु वा भावोत्थानेन यतिषु, धूननम् वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामं धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्मं प्रवेदयेदिति, अनुत्थितेषु वा श्रावकादिषु शुश्रूषमाणेषु धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्तिं कुर्वत्सु वा संसारोत्तारणाय धर्म प्रवेदयेत् / किम्भूतं प्रवेदयेदित्याह- शमनं शान्ति:, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादादिशेषव्रतसङ्गहः, तथा उपशमं क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृति:- निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिकफलभूतमाचक्षीत, तथा शौचं सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणम्, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवंसबाह्याभ्यन्तरग्रन्थपरित्यागात्, कथमाचक्षीतेति, दर्शयति- अनतिपत्य यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषांक कथयति?- सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणाम्, तथा सर्वेषां भूतानां मुक्तिगमनयोग्यत्वेन भव्यत्वेन भूतानां- व्यवस्थितानाम्, तथा सर्वेषां जीवानां संयमजीवितेन जीवतां जिजीविषूणां 7 बज्झागमे.....संपन्ने खेत्तं (मु०)। // 445 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy