SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 444 // प्रतियाममुपसर्गितोन चासौतासुलुलुभेमन्दरवन्निष्प्रकम्पोऽभूदिति 4 / तैर्यग्योना अपि भयप्रद्वेषाहारापत्यसंरक्षणभेदाच्च- श्रुतस्कन्धः१ तुर्दुव, तत्र भयात्सर्पादिभ्यः प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात्, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य षष्ठमध्ययनं इति / तदेवमुक्तविधिनोपसर्गापादकत्वाज्जना लूषका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शा:- पञ्चमोद्देशकः दुःखविशेषा आत्मसंवेदनीया:स्पृशन्ति-अभिभवन्ति,ते चतुर्विधा:-तद्यथा-घट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूर्छादिना सूत्रम् 191 स्तम्भनता वातादिना श्लेषणता तालुनः पातादङ्गल्यादेर्वा स्यात्, यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा उपसर्गसन्मान धूननम् निष्किञ्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापादिता: स्पर्शा:-दुःखविशेषाः कदाचित्स्पृशन्ति- अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान् स्पर्शान्-दुःखविशेषान् धीर:अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्ध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति / कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति दर्शयतिमाह- ओजः एको रागादिविरहात् सम्यग् इतं- गतं दर्शनमस्येति समितदर्शन:, सम्यदृष्टिरित्यर्थः, यदिवा शमितं उपशमं नीतं दर्शनं दृष्टिानमस्येति शमितदर्शन: उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितं गतं दर्शनं-दृष्टिरस्येति समितदर्शन:, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत्, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति- दयां कृपां लोकस्य जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षिणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो यावज्जीवम्, भावतोऽ // 444 // रक्तोऽद्विष्टः, कथमाचक्षीत?- तद्यथा- सर्वे जन्तवो दुःखद्विषः सुखलिप्सव आत्मोपमया सदा द्रष्टव्या इति, उक्तं च-न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः / एष सांग्रहिको धर्मः, कामादन्यः प्रवर्त्तते ॥१॥इत्यादि, तथा धर्ममाचक्षाणो विभजेत् /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy