SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 443 // षष्ठमध्ययनं द्युतं, पञ्चमोद्देशकः सूत्रम् 191 उपसर्गसन्मान धूननम् लूषका भवन्ति, लूष हिंसाया मित्यस्मात् ल्युड्, ते सन्ति विद्यन्ते, तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणामेवानुकूलप्रतिकूलसद्भावाज्जनग्रहणम्, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोपसर्गापादनेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथाहास्यात् 1 प्रद्वेषाद् 2 विमर्शात् 3 पृथग्विमात्रातो 4 वा, तत्र केलीकिल: कश्चिद्व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावाप्तौ च / तद्याचमानस्य कुतश्चिदुपलभ्य विकटादिकं तैर्दुढौके, तेनापि केल्यैव ते क्षुल्लकाः क्षीबा इव व्यधायिषत 1, प्रद्वेषेण यथा / भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविपड्भिस्सेचनमकारि 2, विमर्शात्किमयं दृढधा न वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्व्यन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः साधुरनुकूलोपसग्गैरुपसर्गितो दृढधर्मेति च कृत्वा वन्दित इति 3, तथा पृथग्विविधा मात्रा येषूपसर्गेषु ते पृथग्विमात्रा:- हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा भगवति सङ्गमकेनेव विमर्शारब्धाः प्रद्वेषण पर्यवसिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतु , तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति 1, प्रद्वेषाद्जसुकुमारस्येव श्वशुरसोमभूतिनेति 2, विमर्शाच्चन्द्रगुप्तोराजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्त:पुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताड्य ता: श्रीगृहोदाहरणं राज्ञे निवेदितमिति 3, तत्र कुत्सितं शीलं कुशीलं तस्य प्रतिसेवनं कुशीलप्रतिसेवन तदर्थं कश्चिदुपसर्गं कुर्यात्, तद्यथा-ईर्ष्यालुगृहपर्युषितःसाधुश्चतसृभिः सीमन्तिनीभिःप्रोषितभर्तृकाभिः सकलांरजनीमेकैकया // 443 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy