SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 10 // 8-9 तत्र व्यतिरिक्तं द्रव्याचीर्ण सिंहादेस्तृणादिपरिहारेण पिशितभक्षणम्, क्षेत्राचीर्णं वाल्हीकेषुसक्तवः कोकणेषुपेया, कालाचीण श्रुतस्कन्धः१ त्विदं- सरसो चंदणपंको अग्घइ सरसा य गंधकासाई / पाडलसिरीसमल्लिय पियाइँ काले निदाहमि // 1 // भावाचीर्णं तु प्रथममध्ययनं शस्त्रपरिज्ञा, ज्ञानादिपञ्चकम्, तत्प्रतिपादकश्चाचारग्रन्थः / इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्दा, व्यतिरिक्ता प्रथमोद्देशकः मनुष्यादिजातिः, भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति / इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं नियुक्तिः वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनमशेषमेतत्साधकश्चायमेवाचार इति / एते प्रवर्तनाद्वारेऽस्य किञ्चिद्विशेषादेकमेवार्थं विशिंषन्तः प्रवर्त्तन्त इत्येकार्थिकाः, शक्रपुरन्दरादिवत्, एकार्थाभिधायिनांच छन्दश्चिति-बन्धानु- प्रथमत्वम् लोम्यादिप्रतिपत्त्यर्थमुद्धट्टनम्, उक्तं च बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो / संतगुणदीवणा वि य एगत्थगुणा हवंतेए // 1 // // 7 // इदानीं प्रवर्त्तनाद्वारम्, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह नि०- सव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए। सेसाई अंगाई एक्कारस आणुपुवीए॥८॥ दारं / सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति // 8 // इदानीं प्रथमत्वे हेतुमाह नि०- आयारो अंगाणं पढमं अंगं दुवालसण्हंपि / इत्थ य मोक्खोवाओ एस य सारो पवयणस्स // 9 // दारं / / __अयमाचारो द्वादशानामङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह- यतोऽत्र मोक्षोपायश्चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य 0 सरसश्चन्दनपङ्कोऽर्घति सरसा च गन्धकाषायिकी / पाटलशिरीषमल्लिकाः प्रियाः काले निदाघे / 0 पाडलि (मु०)। 0 बन्धानुलोमता खलु शास्त्रे चल लाघवमसंमोहः / सद्गुणदीपनमपि च एकार्थगुणा भवन्त्येते / / 1 / /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy