SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 9 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 4-7 | निक्षेपचतुष्टयं एकार्थिकानि 2 // चारित्राचारोऽप्यष्टधैव, तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ। पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो // 3 // तपआचारो द्वादशधा, तद्यथा अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ / कायकिलेसो संलीणया य बज्झो तवो होइ // 4 // पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि य अभिंतरओ तवो होइ ॥५॥वीर्याचारस्त्वनेकधा अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो। जुंजइ य जहाथामं नायव्वो वीरियायारो॥६॥ एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् / इदानीमाचालः, आचाल्यतेऽनेनातिनिबिडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा / इदानीमागाल: आगालनमागाल:-समप्रदेशाद्यवस्थानम्, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानम्, भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा / इदानीमाकरः, आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थः, निर्जरादिरत्नानामत्र लाभात् / इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासोज्ञानादिरेव / इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्तव्यता दृश्यते। इदानीमङ्गम्, अज्यते-व्यक्तीक्रियते अस्मिन्नित्यङ्गम्, नामाघेव, तत्र व्यतिरिक्तं शिरोबाह्वादि, भावाङ्गमयमेवाचारः / इदानीमाचीर्णम्, आचीर्णं- आसेवितम्, तच्च नामादिषोढा, - स्थिरीकरणं वात्सल्यं प्रभावनाऽष्टौ // 2 // तिम्र एव च गुप्तयः पञ्च समितयोऽष्ट मिलिताः। प्रवचनमातर इमास्तासु स्थितश्चरणसंपन्नः / / 3 / / अनशनमवमौदर्य वृत्तिसंक्षेपणं रसत्यागः / कायक्लेशः संलीनता च बाह्यं तपो भवति // 4 // प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः। ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति // 5 / / अनिगूहितबलवीर्यः | पराक्रमते यो यथोक्तमायुक्तः / युनक्ति च यथास्थाम ज्ञातव्यः स वीर्याचारः // 6 / / 0 इदानीमाचीर्ण आसेवितम् (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy