SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 441 // यत्स्यात्तदाह- अथ आनन्तर्ये एकेषां भग्नप्रतिज्ञानामुत्प्रवजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां। तु श्लोकोऽश्लाघारूप: पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययश:कीर्तिर्भवति, तद्यथा- स एष पितृवनकाष्ठसमानो भोगाभिलाषी व्रजति तिष्ठति वा, नास्य विश्वसनीयम्, यतो नास्याकर्त्तव्यमस्तीति, उक्तं च- परलोकविरुद्धानि, कुर्वाण दूरतस्त्यजेत् / आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हित:?॥१॥ इत्यादि, यदिवा सूत्रेणैवाश्लाघ्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च- पश्यत यूयं कर्मसामर्थ्य एके विश्रान्तभागधेयाः समन्वागतैरुधुक्तविहारिभिः सह वसन्तोऽप्यसमन्वागता:- शीतलविहारिणः, तथा नममानैः संयमानुष्ठानेन विनयवद्भिः अनममानान् निघृणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान् अभिसमेत्य ज्ञात्वा किंकर्तव्यमिति दर्शयति- पण्डित: त्वं ज्ञातज्ञेयो मेधावी मर्यादाव्यवस्थितो निष्ठितार्थ: विषयसुखनिष्पिपासोवीर: कर्मविदारणसहिष्णुर्भूत्वा आगमेन सर्वज्ञप्रणीतोपदेशानुसारेण सदा सर्वकालं परिक्रामयेरिति // 190 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद् / / धूताध्ययने चतुर्थोद्देशक: परिसमाप्तः॥ श्रुतस्कन्ध:१ षष्ठमध्ययन द्युत, चतुर्थोद्देशकः सूत्रम् 190 गौरवत्रिकधूननम् पञ्चमोद्देशकः ॥षष्ठाध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, साच कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापिसत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन सम्बन्धेना // 441 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy