________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 437 // श्रुतस्कन्धः१ षष्ठमध्ययन द्युतं, चतुर्थोद्देशक: सूत्रम् 188 गौरवत्रिकधूननम् एके-कर्मोदयात् संयमान्निवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बालता न भवत्येव, न पुनर्वदन्ति- एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि- नात्यायत न शिथिलं, यथा युञ्जीत सारथिः / तथा भद्रं वहन्त्यश्वा, योग: सर्वत्र पूजितः॥१॥अपि च- जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो। गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति // 1 // इत्यादि / किम्भूताः पुनरेतदेव समर्थयेयुरित्याह- सदसद्विवेको ज्ञान तस्माद्धृष्टा ज्ञानभ्रष्टाः, तथा दंसणलूसिणो त्ति सम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेन स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मार्गाच्च्यावयन्ति // 187 // अपरे पुनर्बाह्यक्रियोपेता अप्यात्मानं नाशयन्तीत्याह नममाणा वेगेजीवियं विप्परिणामंति पुट्ठा वेगे नियटृति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हु ते नरा, पुणो पुणो जाई पकप्पिंति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसंवयंति, पलियं पकथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्मं // सूत्रम् 188 // नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदयाद्, एके न सर्वे संयमजीवितं विपरिणामयन्ति / अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्तीत्यर्थः / किं चापरमित्याह- एके- अपरिकर्मितमतयो गौरवत्रिकप्रतिबद्धाः स्पृष्टाः / परीषहैर्निवर्तन्ते संयमात् लिङ्गाद्वेति, किमर्थं? - जीवितस्यैव-असंयमाख्यस्य कारणात् निमित्तात् सुखेन वयंजीविष्याम इतिकृत्वा सावधानुष्ठानतया संयमान्निवर्तन्ते। तथाभूतानांच यत्स्यात्तदाह-तेषां गृहवासान्निष्क्रान्तमपिज्ञानदर्शनचारित्रमूलोत्तरगुणान्य ®यदा युञ्जीत सारथिः / तदा (प्र०)। यो यत्र भवति भग्नोऽवकाशं सोऽपरमविन्दन् / गन्तुं तत्रासमर्थ इदं प्रधानमिति घोषयति // 1 // 0 क्रियोपपेता (मु०)। // 437 //