SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता- श्रुतस्कन्ध:१ तीर्थकृदादिस्तमपि परुषं वदन्ति, तथा च क्वचित्स्खलिते चोदिता जगदुः- किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्तनादपीति, षष्ठमध्ययन द्युतं, इत्यादिभिरपाचीनैरालापैरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः॥१८५॥न केवलं शास्तारं परुषं वदन्त्य चतुर्थोद्देशकः परानपिसाधूनपवदेयुरित्येतदाह सूत्रम् 186-187 सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बालया।सूत्रम् 186 // | गौरवत्रिकशीलं-अष्टादशशीलाङ्गसहस्रसङ्खयम्, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं. धूननम् विद्यते येषां ते शीलवन्तः, तथा उपशान्ता: कषायोपशमात्, अत्र शीलवद्हणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम्, सम्यक् ख्यायते- प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया रीयमाणा: संयमानुष्ठाने पराक्रममाणा:: सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽनुपश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्ते ऽनुवदतः पार्श्वस्थादेः द्वितीयैषा मन्दस्य अज्ञस्य बालता मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुयुक्त विहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते कैषां प्रचुरोपकराणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति॥१८६॥अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुः, इत्येतद्दर्शयितुमाह नियट्टमाणा वेगे आयारगोयरमाइक्खंति, नाणब्भट्ठा दंसणलूसिणो॥सूत्रम् 187 // ॐ वैषां (मु०)। // 436 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy