________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 434 // दर्शयति- तैर्महावीरैः-तीर्थकरैर्गणधराचार्यादिभिः, किम्भूतैः?- प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो श्रुतस्कन्धः१ विशेषणम्, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषां-आचार्यादीनां अन्तिके समीपे प्रकर्षेण ज्ञायते अनेनेति षष्ठमध्ययन द्युतं, प्रज्ञानं-श्रुतज्ञानम्, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, उपलभ्य लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशो चतुर्थोद्देशकः त्कटमदत्वात् त्यक्त्वोपशमम्, सच द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्योपशम: कतकफलाद्यापादित: कलुषजलादेःभावोप सूत्रम् 185 गौरवत्रिकशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा- आक्षेपण्याद्यन्यतरया धर्मकथया कश्चिद् / |धूननम् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येवप्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माता: पारुष्यं परुषतां समाददतिगृह्णन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह- त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालम्, न सर्व इति, उक्तं च- पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः / वादिनि च मल्लमुख्य च माहगेवान्तरं गच्छेत् // 1 // द्वितीयस्त्वाह- नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह- सोऽपि वाक्कुण्ठो बुद्धिविकल: किंजानीते?, त्वमपिच शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीत-कतिचिदक्षरो मोहोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन भाषते, उक्तं च अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय / कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 1 // क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः / शास्त्राण्यपि हास्यकथां लघुतां वा 7 वाचिकुण्ठो (मु०)। // 434 //