SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 433 // स्थितम् / इत्येतदेवोपसंहरन्नाह- यथा द्विजपोतो मातापितृभ्यामनुपाल्यते एवमाचार्येणापि शिष्या अहर्निशं अनुपूर्वेण क्रमेण वाचिता: पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति // 184 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / धूताध्ययने तृतीयोद्देशकः परिसमाप्त इति // श्रुतस्कन्धः१ षष्ठमध्ययनं चतुर्थोद्देशकः सूत्रम् 185 गौरवत्रिक धूननम् ॥षष्ठाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके शरीरोपकरणधूननाऽभिहिता,सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्तद्धननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादि-8 गुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिच्चा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आघायं तु सुच्चा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता सत्थारमेव फरुसंवयंति॥सूत्रम् 185 // एवं इति द्विजपोतसंवर्द्धनक्रमेणैव ते शिष्या: स्वहस्तप्रव्राजिता उपसम्पदागताः प्रातीच्छकाश्च दिवा च रात्रौ च अनुपूर्वेण क्रमेण वाचिताः पाठिताः, तत्र कालिकमह्नःप्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकंतु कालवेलावर्ज सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिता: शिष्याश्चारित्रं च ग्राहिताः, तद्यथा- युगमात्रदृष्टिना गन्तव्यं कूर्मवत्सङ्कचिताङ्गेन भाव्यमित्याद्येवं शिक्षा ग्राहिता वाचिताः- अध्यापिताः, कैरिति // 433 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy