SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 427 // सोढं भवति / एतच्चन मयोच्यते इत्येतद्दर्शयितुमाह- यथा येन प्रकारेण इद मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता- वीरवर्द्धमान- श्रुतस्कन्धः१ स्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह- तद्- उपकरणलाघवमाहारलाघवं षष्ठमध्ययनं द्युतं, वा अभिसमेत्य ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते- सर्वत इति द्रव्यतः क्षेत्रतः तृतीयोद्देशकः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति सूत्रम् 182 भावत: कृत्रिमकल्काद्यभावेन, तथा सम्यक्त्व मिति प्रशस्तं शोभनं एकं सङ्गतंवा तत्त्वंसम्यक्त्वम्, तदुक्तं- प्रशस्त: शोभनश्चैव, उपकरणशरीर धूननम् एक: सङ्गत एव च / इत्येतैरुपस्पृष्टस्तु, भावः सम्यक्त्वमुच्यते // 1 // तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् सम्यगाभिमुख्येन जानीयात्- परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तं जोऽवि दुवत्थतिवत्थो / एगेण अचेलगो व संथरइ / ण हु ते हीलंति परं सवेवेऽवि य ते जिणाणाए॥१॥तथा जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प राणऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं // 2 // सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए / विहरति उज्जया खलु सम्म अभिजाणई एवं॥३॥ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभि-8 जानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्यादिति तात्पर्यार्थः / एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद्भवत: केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतदर्शयितुमाह- एवं इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां चिररात्रं प्रभूतकालं यावज्जीवमित्यर्थः, तदेव 0 योऽपि द्विवस्त्रस्त्रिवस्त्र एकेन अचेलको वा निर्वहति / नैव हीलयति परं सर्वेऽपि च ते जिनाज्ञायाम् // 1 // ये खलु विसदृशकल्पा: संहननधृत्यादिकारणं प्राप्य / नावमन्यते न च हीनमात्मानं मन्यते तेभ्यः / / 2 / / सर्वेऽपि जिनाज्ञाया यथाविधि कर्मक्षपणार्थं / विहरन्त्युद्यताः खलु सम्यगभिजानात्येवम् / / 3 / /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy