________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 426 // सत्पथः, तथेदमपि तस्य न भवत्येव यथा- अपरं वस्त्रमहं याचिष्ये इत्यादि पूर्ववन्नेयम्, योऽपि छिद्रपाणित्वात् पात्रनिर्योग- श्रुतस्कन्धः१ समन्वित: कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो षष्ठमध्ययनं द्युतं, ग्रहणात्सूचिसूत्रान्वेषणं न करोति / तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह-तस्य ह्यचेलतया 1 तृतीयोद्देशक: परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत्स्यात्-तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं क्वचिद्वामादौ / सूत्रम् 182 उपकरणशरीर त्वक्त्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिता: स्पर्शा:-दुःखविशेषास्तृणस्पर्शास्ते कदाचित् धूननम् स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति- उपतापयन्ति, तेज:- उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दंशमशकस्पर्शाः स्पृशन्ति, एतेषां तु परीषहाणामेकतरेऽविरुद्धा दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्प्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूपं बीभत्सं मनोऽनाह्लादि विविधं वा मन्दादिभेदाद्रूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?- स्पर्शाः दुःखविशेषाः, तदापादकास्तृणादिस्पर्शावा, तान् सम्यक्करणेनापध्यानरहितोऽधिसहते, कोऽसौ?- अचेल: अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह- लघोर्भावो लाघवम्, द्रव्यतो भावतश्च, द्रव्यतो झुपकरणलाघवं भावतः कर्मलाघवं आगमयन् अवगमयन्नवबुध्यमान इतियावद् अधिसहते परीषहोपसनिति, नागार्जुनीयास्तु पठन्ति एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकरणं करेइ एवं उक्तक्रमेण भावलाघवार्थमुप 8 // 426 // करणलाघवंतपश्च करोति इति भावार्थः / किंच-से तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य तपः कायक्लेशरूपतया बाह्यमभि-समन्वागतं भवति- सम्यग् आभिमुख्येन।