SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 425 // श्रुतस्कन्धः१ षष्ठमध्ययन द्युतं, तृतीयोद्देशकः सूत्रम् 182 उपकरणशरीर धूननम् ___एतत् यत्पूर्वोक्तं वक्ष्यमाणं वा खुः वाक्यालङ्कारे, आदीयते इत्यादानं-कर्म आदीयते वाऽनेन कर्मेत्यादानं कर्मोपादानम्, तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः, किम्भूतः?- सदा सर्वकालं सुष्ठाख्यातो धर्मोऽस्येति स्वाख्यातधर्मा-संसारभीरुत्वाद्यथारोपितभारवाहीत्यर्थः, तथा विधूत:-क्षुण्णः सम्यग्स्पृष्टः कल्प:-आचारो येन स तथा, स एवम्भूतो मुनिरादानं झोषयित्वा आदानमपनेष्यति, कथं पुनस्तदादानं वस्त्रादि स्यायेन तत् झोषयितव्यं भवेदित्याह- अल्पार्थे नञ्, यथाऽयं पुमानज्ञः स्वल्पज्ञान इत्यर्थः, यः साधु स्य चेलं-वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे पर्युषितो व्यवस्थित इति, तस्य भिक्षोः नैतद्भवति नैतत्कल्पते यथा परिजीणं मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्त्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादिति वस्त्रं विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्यग्रं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिं च याचिष्ये, अवाप्ताभ्यां च सूचिसूत्राभ्यां जीर्णवस्त्ररन्ध्र सन्धास्यामि-पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्त्तध्यानोपहता असत्यपि जीर्णादिवस्त्रसद्भावे यद्भविष्यत्ताऽध्यवसायिनो धम्मकप्रवणस्य न भवत्यन्त:करणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयम्, तद्यथा- जे अचेले इत्यादि, नास्य चेलं-वस्त्रमस्तीत्यचेल:- अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद्भवति, यथा- परिजीर्णं मे वस्त्रं छिद्रं पाटितं चेत्येवमादि वस्त्रगतमपध्यानं न भवति, धर्मिणोऽभावाद्धाभावः, सति तु धर्मिणि धर्मान्वेषणं न्याय्यमिति 0 शोषयितेति (प्र०)। // 425 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy