SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 421 // श्रुतस्कन्धः१ षष्ठमध्ययन द्युतं, द्वितीयोद्देशकः सूत्रम् 180 कर्मधूननम् मौनीन्द्रे प्रवचने विरत: सन्सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्यां यतमानः, कोऽसौ?-अनगार: प्रव्रजितः, एकत्वभावनां भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किं च-सर्वतः द्रव्यतो भावतश्च मुण्डो रीयमाणः संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-य: अचेल: अल्पचेलो जिनकल्पिको वा पर्युषितः संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपिन प्रकामतयेत्याह-संचिक्खइ संतिष्ठते अवमौदर्ये / न्यूनोदरतायां वर्तमानःसन् कदाचिप्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दर्शयितुमाह-स मुनिर्वाग्भिराक्रुष्टो वा दण्डादिभिर्हतो वा लुञ्चितो वा केशोत्पाटनतः / पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक्ति तिक्षमाण: परिव्रजेदिति, एतच्च भावयेत्, तद्यथा पावाणं च खलु भो कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिक्कंताणं वेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता (दशवैका० चू० 2) इत्यादि / कथं पुनर्वाग्भिराक्रुश्यत इत्याह-पलिअंति कर्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक! प्रव्रजित! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह- अतथ्यैः वितथैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शेश्च असद्भूतैः साधोः कर्तुमयुक्तैः करचरणच्छेदादिभिःस्वकृतादृष्टफलमित्येतत् सङ्ख्याय ज्ञात्वा तितिक्षमाणाः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा पंचहि ठाणेहिं छउमत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहा- जक्खाइढे अयं पुरिसे 1, उम्मायपत्ते अयं पञ्चभिः स्थानश्छद्यस्थ // 421 / / Oपापानां च खलु भोः कृतानां कर्मणां पूर्व दुवीर्णानां दुष्पराक्रान्ताना वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा क्षपयित्वा उत्पन्नानुपसर्गान् सहते क्षमते तितिक्षते अध्यासयति, तद्यथा-यक्षाविष्टोऽयं पुरुषः उन्मादप्राप्तोऽयं .
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy