________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 420 // चरणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह श्रुतस्कन्धः१ अहेगे धम्ममायाय आयाणप्पभिइ सुपणिहिते चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च षष्ठमध्ययनं द्युतं, सव्वओ संगंन महं अत्थित्ति इय एगो अहं, अस्सिं जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवुसिए संचिक्खड़ द्वितीयोद्देशकः ओमोयरियाए, से आकुठे वा हए वा लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे सूत्रम् 180 कर्मधूननम् अभिन्नाय तितिक्खमाणे परिव्वएजे य हिरी जे य अहिरीमाणा॥ सूत्रम् 180 // अथ अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया धर्मं श्रुतचारित्राख्यं आदाय गृहीत्वा वस्त्रपतद्हादिधर्मोपकरणसमन्विता धर्मचरणेषु प्रणिहिता: परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्मं चरेयुरिति। अत्रच पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण / पठितव्यानीति, उक्तंच यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः // 1 // / किम्भूताः पुनर्धर्मं चरेयुरित्याह- कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ता धर्मचरणे दृढाः तपःसंयमादौ द्रढिमानमालम्बमाना धर्मं चरन्तीति, किंच-सर्वां गृद्धिं भोगकाङ्क्षांदुःखरूपतया ज्ञपरिज्ञया / परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् / तत्परित्यागे गुणमाह- एष इति कामपिपासापरित्यागी प्रकर्षेण नत:-प्रह्वः संयमे कर्मधूननायां वा महामुनिर्भवति नापर इति / किं च- अतिगत्य अत्येत्यातिक्रम्य सर्वतः सर्वैः प्रकारैः सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च इति उक्तक्रमेणैकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति / एतद्भावनाभावितश्च यत्कुर्यात्तदाह- अत्र अस्मिन् 7 सर्वाणि (प्र०)। // 420 //