________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ षष्ठमध्ययनं धूतम्, द्वितीयोद्देशक: सूत्रम् |178-179 कर्मधूननम् श्रुतस्कन्धः१ // 418 // ॥षष्ठाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिम्बन्धः, इहानन्तरोद्देशके निजकविधूनना प्रतिपादिता, सा चैवं फलवती स्याद्यदि कर्मविधूननं स्याद्, अतः कर्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादि सूत्रं आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभेचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला।सूत्रम् 178 // लोकं मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोकं कामरागातुरं आदाय ज्ञानेन गृहीत्वा परिच्छिद्य तथा त्यक्त्वा च पूर्वसंयोगं मातापित्रादिसम्बन्धम्, तथा हित्वा गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति- वसु द्रव्यं तद्भूतः कषायकालिमादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसुः सराग इत्यर्थः, यदिवा वसुः- साधुः अनुवसु:- श्रावकः, तदुक्तं- वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा / सरागो ह्यऽनुवसुः प्रोक्तः, स्थविर श्रावकोऽपि वा ॥१॥तथा ज्ञात्वा धर्मं श्रुतचारित्राख्यं यथातथावस्थितं धर्मं प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन तं धर्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः?-कुत्सितं शीलं येषां ते कुशीला इति, यत एव धर्मपालनाशक्ता अत एव कुशीलाः // 178 // एवम्भूताश्च सन्तः किं कुर्युरित्याह वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं वितिण्णा चेए॥सूत्रम् 179 // ||418 //