________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 416 // आतुरा:-कामेच्छान्धा अपरान् प्राणिनःपरितापयेयुः इत्यादिना प्रक्रमेणेति // 175 // तदेवं रोगकामातुरतया सावधानुष्ठान- श्रुतस्कन्धः१ प्रवृत्तानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्ता दिदर्शयिषुः प्रस्तावमारचयन्नाह षष्ठमध्ययन धूतम्, ___आयाण भो सुस्सूस! धूयवायं पवेयइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया प्रथमोद्देशकः अभिनिव्वुडा अभिसंवुड्डा अभिसंबुद्धा अभिनिक्वंता अणुपुव्वेण महामुणी // सूत्रम 176 // सूत्रम् 176 स्वजनधूननम् भो इति शिष्यामन्त्रणे, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद् आजानीहि -अवधारय, शुश्रूषस्व श्रवणेच्छां विधेहि भोः इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहम्, धूतं- अष्टप्रकारकर्मधूननं / ज्ञातिपरित्यागो वा तस्य वादो धूतवादस्तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति / नागार्जुनीयास्तु पठन्ति धुतोवायं / पवेएंति अष्टप्रकारकर्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः। कोऽसावुपाय इत्यत आह- इह अस्मिन् / संसारे खलुः वाक्यालङ्कारे आत्मनो भाव आत्मता- जीवास्तिता स्वकृतकर्मपरिणतिर्वा तयाऽभिसम्भूताः- सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति, तेषु तेषूच्चावचेषु कुलेषु यथास्वं कर्मोदयापादितेषु अभिषेकेण शुक्रनिषेकादिक्रमेणेति, तत्रायं क्रमः- सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् / अर्बुदाज्जायते पेशी, पेशीतोऽपि घन भवेत्॥१॥इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, तत:साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवआर्तनादभिनिर्वृत्ताः, ततः प्रसूता:सन्तोऽभिवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथादिकं निमित्तमासाद्योपलब्ध // 416 // पुण्यपापतयाऽभिसम्बुद्धाः, ततः सदसद्विवेकंजानाना: अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपबृंहितचरण 0 शुक्रशोणितनिषेका० (मु०)। (c) ऽभिसंवृद्धाः (मु०)।