________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 415 // श्रुतस्कन्धः१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः सूत्रम् 175 स्वजनधूननम् किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह- यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः सक्ताः गृद्धाः कामेषु इच्छामदनरूपेषु मानवा: पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः। कामासक्ताश्च यदवाप्नुवन्ति तदाह- बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण प्रभङ्गरेण स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु योरतिं विदध्यादित्याह-मोहोदयादात: अगणितकार्याकार्यविवेकः सोऽसुमान्बहुदुःखं प्राप्तव्यमनेनेति बहदुःख इत्येनं कामानुषपंप्राणिनां क्लेशं वा बालो रागद्वेषाकुलित: प्रकर्षण करोति प्रकरोति, तज्जनितकर्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाह- एतान्- गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, लावकादिपिशिताशिन: किल क्षयव्याध्युपशम: स्यादि त्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रवर्तेरन्, नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्मविपाकोदयादेतत्, तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति, एतदेवाह-पश्यैतद्विमलविवेकावलोकनेन यथा नालंन समर्थाः चिकित्साविधयः कर्मोदयोपशमं विधातुम्, यद्येवंततः किं कर्त्तव्यमिति दर्शयतिअलं पर्याप्तं तव सदसद्विवेकिनः एभिः पापोपादानभूतैश्चिकित्साविधिभिरिति / किं च- एतत् प्राण्युपमर्दादिकं पश्य अवधारय हे मुने! जगत्त्रयस्वभाववेदिन्, महद्- बृहद्भयहेतुत्वाद्भयम्, यद्येवं ततः किं कुर्यादिति दर्शयति- नातिपातयेत् न हन्यात् कञ्चन प्राणिनम्, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्टप्रकारमपि कर्म बध्यते, तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू णच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून ज्ञात्वा आसेवनाप्रज्ञयेति (r) रागद्वेषाकलित: (प्र०)।