________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 414 // श्रुतस्कन्ध:१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः सूत्रम् 175 स्वजनधूननम् भावान्धकारेऽपिच मिथ्यात्वाविरतिप्रमादकषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः / किंच- तामेवावस्था कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्- अनेकशोऽतिगत्योच्चावचान-तीव्रमन्दान् स्पर्शान्- दुःखविशेषान् प्रतिसंवेदयन्ति अनुभवन्ति। एतच्च तीर्थकृद्भिरावेदितमित्याह- बुद्धैः तीर्थकृद्धिः एतद् अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् / एतच्चवक्ष्यमाणं प्रवेदितमित्याह-सन्ति विद्यन्ते 'प्राणा:' प्राणिनो वासकाः' वासृशब्दकुत्सायां वासन्तीति वासका:- भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः संज्ञिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा- उदके उदकरूपा एवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचरा:- पूतरकच्छेदनकलोडणकत्रसमत्स्यकच्छपादयः, तथाऽजलजाँ अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरेतु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि प्राणाः प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थं मत्सरादिना वा क्लेशयन्ति उपतापयन्ति / यद्येवं ततः किमित्यत आह- पश्य अवधारय लोके चतुर्दशरज्वात्मके, कर्मविपाकात्सकाशात् महद्भयं नानागतिदुःखक्लेशविपाकात्मकमिति // 174 // कर्मविपाकान्महद्भयमित्याह बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं, एयं पास मुणी! महन्भयं नाइवाइज कंचणं // सूत्रम् 175 // बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हु:- यस्मात्, यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यम् / ®सा मत्स्य....तथा स्थलजा अपि (मु०)। // 42 //