________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 413 // श्रुतस्कन्धः१ षष्ठमध्ययनं |धूतम्, प्रथमोद्देशकः सूत्रम् 174 स्वजनधूननम् उभयरूपस्याप्यष्टाविंशतिः, कुलकोटीलक्षाः, तत्र च गतोऽसुमाननन्तमपि कालं छेदनभेदनमोटनादिजनिता नानारूपा वेदना अनुभवन्नास्ते, विकलेन्द्रियाणामपि द्वौ द्वौ योनिलक्षौ कुलकोट्यस्तु द्वीन्द्रियाणां सप्त त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव, दुःखंतु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपि चत्वारो योनिलक्षा: कुलकोटीलक्षास्तु जलचराणामर्द्धत्रयोदश पक्षिणांद्वादश चतुष्पदानां दश उर:परिसर्पाणां दश भुजपरिसर्पाणां नव वेदनाश्च नानारूपा यास्तिरश्चां सम्भवन्ति ताः प्रत्यक्षा एवेति, उक्तंच- क्षुत्तृहिमात्युष्णभयार्दितानां, पराभियोगव्यसनातुराणाम् / अहो! तिरश्चामतिदुःखितानां, सुखानुषङ्गः किल वार्तमेतद् // 1 // इत्यादि। मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति- दु:खं स्त्रीकुक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपय:पानमिश्रम् / तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् // 1 // बाल्यात्प्रभृति चरोगैर्दुष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः॥२॥क्षुत्तृहिमोष्णानिलशीतदाहदारिद्यशोकप्रियविप्रयोगैः aa दौर्भाग्यमौानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः // 3 // इत्यादि / देवगतावपि चत्वारो योनिलक्षाः षड्रिंशतिः कुलकोटीलक्षाः तेषामपीpविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसांदुःखानुषङ्ग एव, सुखाभासाभिमानस्तु केवलमिति, उक्तं च- देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु / आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति॥१॥इत्यादि। तदेवं चतुर्गतिपतिताः संसारिणोनानारूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाहसन्ति विद्यन्ते प्राणा: प्राणिनः अन्धा: चक्षुरिन्द्रियविकला भावान्धा अपि सदसद्विवेकविकला: तमसि अन्धकारे नरकगत्यादौ (r) भवे (मु०)।