SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 412 // तंकर्मविपाकं यथावस्थितंतथैव ममावेदयतः शृणुत यूयम्, तद्यथा-नारकतिर्यनरामरलक्षणाश्चतस्रोगतयः, तत्र नरकगतो श्रुतस्कन्धः१ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थिति: वेदनाश्च परमाधार्मिकपरस्परोदीरि-8 षष्ठमध्ययनं धूतम्, तस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविषयं न वागवतरति प्रथमोद्देशकः तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरेव किञ्चिदभिधीयते श्रवणलवनं नेत्रोद्धार करक्रमपाटनं, सूत्रम् 174 स्वजनधूननम् हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् / कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कङ्कोरैः समन्तविभक्षणम् // 1 // तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्चक्रैः। परशुत्रिशूलमुद्रतोमरवासीमुषण्ढीभिः॥२॥सम्भिन्नतालुशिरस श्छिन्नभुजाश्छिन्नकर्णनासौष्ठा:। / भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्ताः // 3 // निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः / नेक्षन्ते त्रातारं नैरयिका कर्मपटलान्धाः॥४॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीच्छु(वच्छू)भिः परिवृताः संभक्षणव्यापृतैः / पाट्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः // 5 // भृज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः / दह्यन्ते विकृतो बाहुवदना: क्रन्दन्त आर्तस्वनाः, पश्यन्त: कृपणा दिशो विशरणास्त्राणाय को नो भवेत्?॥६॥इत्यादि। तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षा: स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षा वेदना अपि नानारूपा एव, तथा तेजस्कायस्य सप्त योनिलक्षास्त्रयः कुलकोटीलक्षा: पूर्ववद्वेदनादिकम्, वायोरपि सप्त योनिलक्षा: सप्त च कुलकोटीलक्षा वेदना अपि शीतोष्णादिजनिता नानारूपा एव, प्रत्येकवनस्पतेर्दश योनिलक्षाः साधारणवनस्पतेश्चतुर्दश 7 विषवीचिभिः (मु०)। // 412
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy