________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः सूत्रम् 174 स्वजनधूननम् श्रुतस्कन्धः१ 411 // कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विदः // 2 // तथा महुमेहणिं ति मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रसाववानित्यर्थः, तत्र प्रमेहाणां विंशतिर्भेदास्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहा:प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदा-विंशतिभेदा भवन्ति, तत्र कफादश षट् पित्तात्वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति उक्तं च सर्व एव प्रमेहास्तु, कालेनाप्रतिकारिणः / मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते॥१॥ इति / तदेवं षोडशाप्येते- अनन्तरोक्ताः रोगा व्याधयो व्याख्याता: अनुपूर्वशो अनुक्रमेण अथ अनन्तरं णं इति वाक्यालङ्कारे स्पृशन्ति अभिभवन्ति आतङ्का आशुजीवितापहारिणःशूलादयो व्याधिविशेषाः स्पर्शाश्च गाढप्रहारादिजनिता दुःखविशेषाः असमञ्जसा क्रमयोगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीति सम्बन्धः / न रोगातडैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकं स्यात्तदाह-तेषांकर्मगुरूणांगृहवासासक्तमनसामसमञ्जसरोगै: क्लेशितानां मरणंप्राणत्यागलक्षणं संप्रेक्ष्य पर्यालोच्य पुनरुपपातं. च्यवनं च देवानां कर्मोदयात् संततं ज्ञात्वा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किंचकर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायां परिपाकंच 'सम्प्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यम्॥१७३॥ सच करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह तंसुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एवं पवेइयंसंति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं।सूत्रम् 174 // ७०दयात् सञ्चितं (प्र०), दयासञ्चितं (प्र०)। 0 ०त्पादलक्षणं (प्र०)। // 41