SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 410 // सूत्रम् 173 तथा कुणियं ति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा खुज्जियं ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, श्रुतस्कन्धः१ मातापितृशोणितशुक्रदोषेण गर्भस्वदोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च- गर्भे वातप्रकोपेन, दौहृदेव षष्ठमध्ययन धूतम्, वाऽपमानिते / भवेत् कुब्जः कुणिः पङ्गर्मूको मन्मन एव वा // 1 // मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति / / प्रथमोद्देशकः तथा- उदरिं च त्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः स्वजनधूननम् साध्या इति, ते चामी भेदा:- पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव / आगन्तुकं सप्तममष्टमं तु, जलोदरं चेति भवन्ति तानि // 1 // इति, तथा पास मूई च त्ति पश्य- अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालंच, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि चेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेष्विति, सूणियं च त्ति शूनत्वं श्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं षोढेति, उक्तं च- शोफः स्यात् षड्डिधो घोरो, दोषैरुत्सेधलक्षणः / व्यस्तै: समस्तैश्चापीह, तथा रक्ताभिघातजः॥१॥इति, तथा गिलासिणिं ति भस्मको व्याधिः,सच वातपित्तोत्कटतया श्लेष्मन्यूनतयो-8 पजायत इति, तथा वेवई ति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तं च प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति / कलापखच तं विद्यान्मुक्तसन्धिनिबन्धनम्॥१॥इति, तथा पीढसप्पिंचत्ति जन्तुर्गर्भदोषात् पीढसर्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, सकिल पाणिगृहीतकाष्ठः प्रसपतीति, तथा सिलिवयं तिश्लीपदं- पादादौ काठिन्यम्, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना वक्ष्णो(वक्षो)रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छ्लीपदमित्याचक्षतेपुराणोदकभूयिष्ठाः, सर्वर्तुषु च शीतलाः। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ पादयोर्हस्तयोश्चापि, श्लीपदं जायते नृणाम् // 410
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy