SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 409 // पश्य त्वं तेषूच्चावचेषु कुलेषु, आत्मत्वाय-आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह-षोडशरोग श्रुतस्कन्धः१ वक्तव्यानुगतं श्लोकत्रयम्, वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डम्, तदस्यास्तीति गण्डी-गण्डमालावानित्यादि, अथवेत्ये षष्ठमध्ययनं धूतम्, तत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अथवा अपस्मारीत्यादि, तथा- कुष्ठी कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र प्रथमोद्देशकः सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरिश्यजिह्वकपालकाकनदपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशाद- नियुक्ति: 251 सूत्रम् 173 साध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क 1 महाकुष्ठ 2 ककुष्ठ 3 चर्मदल 4 परिसर्प५ विसर्प 6 सिध्म 70 स्वजनधूननम् विचर्चिका 8 किटिभ 9 पामा 10 शतारुक 11 संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति / तथा- राजांसो- राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्व्यः कारणेभ्यो भवति इति, उक्तं च- त्रिदोषो जायते यक्ष्मा, गदो हेतुचतुष्टयात् / वेगरोधात् क्षयाच्चैव, साहसाद्विषमाशनात्॥१॥तथा- अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्द्धा, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तं च-भ्रमावेश: ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः / अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः॥१॥ तथा काणियं ति अक्षिरोगः, स च द्विधा- गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षम्, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगा: प्रादुष्ष्यन्तीति, उक्तं च- वातात्पित्तात्कफाद्रक्तादभिष्यन्दचतुर्विधः / प्रायेण जायते घोरः, सर्वनेत्रामयाकरः॥१॥ इति, तथा- झिम्मियं ति जाड्यता सर्वशरीरावयवानामवशित्वमिति, ७०म्बरनिश्य....काकनाद (मु०)। ॐ अपगतः स्मारः स्मरणं यस्मात् स: अपस्मारः तस्मिन्सति तद्रोगिणः सर्वविषया स्मृति: नश्यति। // 409 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy