SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ | श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 408 // श्रुतस्कन्धः१ षष्ठमध्ययन धूतम्, प्रथमोद्देशकः नियुक्ति: 251 सूत्रम् 173 स्वजनधूननम् तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति / अस्यायमर्थोपनय:- संसारहदे जीवकूर्मः कर्मशैवलविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः संसारहदान्तर्वर्त्तिनस्तदवाप्तिः?, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतं सम्यक्त्वं क्षणमप्येकं न प्रमादवता भाव्यमिति तात्पर्यार्थः / पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाहभञ्जगा वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणक्षोभामोटनभञ्जनरूपानुपद्रवान् सहमाना अपि सन्निवेशं स्थान कर्मपरतया न त्यजन्ति, एवमित्यादिना दार्टान्तिकमर्थं दर्शयति- एव मिति वृक्षोपमया अपिः सम्भावने, एके कर्मगुरवोऽनेकरूपेषु कुलेषूच्चावचेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषु च विषयेषु सक्ताः | अध्युपपन्ना:शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुता: अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताधयोऽपिन सकलदुःखावासं गृहवासं कर्मनिन्घ्नास्त्यक्तुमलम्, अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु करुणं स्तनन्ति दीनमाक्रोशन्ति, तद्यथा- हा तात! हा मातः हा दैव! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुम्, तदुक्तं-किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् / सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥१॥इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकर्माणो नरकादिवेदनामनुभवन्त: करुणं स्तनन्तीति, न च करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतद्दर्शयितुमाहदुःखस्य निदानं-उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठानमिति / दुःखविमोक्षाभावे च यथा नानाव्याध्युपसृष्टाः संसारोदरे प्राणिनो विवर्त्तन्ते तथा दर्शयितुमाह- अथ इति वाक्योपन्यासार्थे // 408 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy