________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 406 // कुड्यादिभ्योऽपि धर्मदेशना: प्रादुष्षन्ति, यथा वा वैशेषिकाणामुलूकभावेन पदार्थाविर्भावनम्, एवमस्माकंन / घाति- श्रुतस्कन्धः१ कर्मक्षये तूत्पन्ननिरावरणज्ञानो मनुष्यभावापन्न एव कृतार्थोऽपि सत्त्वहिताय सदेवमनुजायां पर्षदि कथयति / किं तीर्थकर षष्ठमध्ययन धूतम्, एव धर्ममाचष्टे उतान्योऽपि?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह प्रथमोद्देशकः यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा इमाः शस्त्रपरिज्ञायांसाधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिता: जातयः एकेन्द्रियादयः नियुक्ति: 251 सूत्रम् 173 सर्वतः सर्वैः प्रकारैः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपैः सुष्ठ-शङ्कादिव्युदासेन प्रत्युपेक्षिताः प्रति उप-सामीप्येन ईक्षिता: स्वजनधूननम् ज्ञाता भवन्ति स धर्ममाचष्टे नापर इति / इदमेवाह- आख्याति कथयति स तीर्थकृत्सामान्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?- ज्ञानं ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ज्ञानं- मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति?- अनीदृशं नान्यत्रेदृशमस्तीत्यनीदृशम्, यदिवा सकलसंशयापनयनेन धर्ममाचक्षाण एव स आत्मनो। ज्ञानमनन्यसदृशमाख्याति / केषां पुनः स धर्ममाचष्ट इत्यत आह- स तीर्थकृद्गणधरादिः कीर्त्तयति यथावस्थितान् भावान् प्रतिपादयति तेषां धर्माचरणाय सम्यगुत्थितानाम्, यदिवा उत्थिता द्रव्यतो भावतश्च, तत्र द्रव्यत: शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभयथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति / उत्तिष्ठासूनां च देवानां तिरश्चांच, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे,भावसमुत्थिता विशिशेषयिषुराह-निक्षिप्ता:संयमिता: मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्त-दण्डानाम्, तथा समाहिताणं सम्यगाहिताः- तपःसंयम उद्युक्ताः समाहिता अनन्यमनस्कास्तेषां तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानां इह 0 मस्माकं न, कथं ? घाति....कथयतीति (मु०)। // 406 //