________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 400 // कुमार्गपरि सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवर्ती विदितवेद्यः सन् किं कुर्यादित्याह-सहि ज्ञातज्ञेयः सुरासुरनरोपबंहितां पूजामुपलभ्य श्रुतस्कन्धः१ कृत्रिमामनित्यामसारांसोपाधिकांच प्रत्युपेक्ष्य पर्यालोच्य हृषीकविषयजनितसुखनिस्पृहतयातांनाकाङ्क्षति-नाभिलषतीति। | पञ्चममध्ययन लोकसारः, किं च- इह अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया / षष्ठोद्देशकः ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति // 170 // तन्निराकरणे च यत्स्यात्तदाह सूत्रम् 171 अच्चेइ जाईमरणस्स वडुमगं विक्खायरए, सव्वे सरा नियटृति, तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्ठाणस्स त्याग: खेयन्ने, से नदीहे न हस्से न वट्टेन तंसे न चउरंसे न परिमंडले न किण्हे न नीले नलोहिए न हालिद्दे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे रागद्वेषहानिश्च न तित्ते न कडुए न कसाए न अंबिलेन महुरे न कक्खडे न मउए न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खेन काऊन रुहे न संगे न इत्थी न पुरिसे न अन्नहा परिन्ने सन्ने उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि / / सूत्रम् 171 // अत्येति अतिक्रामति जातिश्च मरणंच जातिमरणं तस्य वडुमगं ति पन्थानं मार्ग उपादानं कर्मेतियावत्, तदत्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधं- अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन (आख्यातो) व्याख्यातो मोक्ष:- अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरत:, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते। किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, नचसा काचिदवस्थाऽस्ति याशब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाह- सर्वे निरवशेषाः स्वरा ध्वनयस्तस्मान्निवर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शब्दाःप्रवर्त्तमानारूपरसगन्धस्पर्शानामन्यतमे विशेष सङ्केतकालगृहीते तत्तुल्ये (r) सम्बन्धेन (प्र०)। // 400 //