________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 399 // सूत्रम् 170 कुमार्गपरि पेक्षयोद्धु गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपिश्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारामसभाऽऽवसथादीनि श्रुतस्कन्धः१ प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि- प्रयोगविनसाभ्यां स्वकर्मपरिणत्या वा जनितानि व्याहितानि, एतानि च पञ्चममध्ययन लोकसारः, कास्रवद्वाराणीतिकृत्वा श्रोतांसीव स्रोतांसि, एभिश्च त्रिभिःप्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैयः सङ्गं प्राणिनामासक्तिं षष्ठोद्देशकः कानुषङ्गं वा पश्यत, इतिर्हेतौ, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति // किं च त्यागः आवर्सेतु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ इह आगई रागद्वेषहानिश्च गई परिन्नाय // सूत्रम् 170 // रागद्वेषकषायविषयावर्त कर्मबन्धावर्त वा तुशब्दः पुनः शब्दार्थे भावावर्त पुनरुत्प्रेक्ष्य अत्र अस्मिन् भावावर्ते विषयरूपे / वेदविद् आगमविद् विरमेद् आम्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा विवेगं किट्टइ वेदवी आस्रवद्वारनिरोधेन तजनितकर्म-8 विवेकं-अभावं कीर्तयति प्रतिपादयति वेदविदिति / आस्रवद्वारनिरोधेन च यत्स्यात्तदाह- स्रोत:- आम्रवद्वारं तद्विनेतुंअपनेतुं निष्क्रम्य प्रव्रज्य एष इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यंभावित्वादेष इति प्रत्यक्षवाचिनासर्वनाम्नोक्तो यः कश्चिदित्यर्थः महान् महापुरुष आतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टःस्यादिति दर्शयति-अकर्मा नास्य कर्म विद्यत इत्यकर्मा, कर्मशब्देन चात्र घातिकर्म विवक्षितम्, तदभावाच्चजानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य / / 399 // भवन्तीत्यत: पूर्वजानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, सचोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः 0 विवेकभावं (प्र०)।