SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 396 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, षष्ठोद्देशकः सूत्रम् 168 कुमार्गपरित्यागः रागद्वेषहानिश्च यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्वचनाहिर्मनो विधत्ते, तीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह- पवाएण पवायं जाणिज्जा प्रकृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन / तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा- वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तं-अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥इत्यादिकं प्रवादमात्मीयप्रवादेन पयोलोचयेत्, तद्यथा-अभ्रेन्द्रधनुरादीनां विस्रसापरिणामलब्धात्मलाभानांतदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गःस्यात्, तथा घटपटादीनांदण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानांतदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायांरासभादेरपि किंनस्यात्?, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितं वैचित्र्यम्, कर्मणोऽ-8 नुपलब्धेः कुत एतदिति चेत्, समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यम्, तच्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यम्, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति / तथासाङ्ख्या एवमाहुः-यथा सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्क्ते ततः कैवल्यावस्थायां दृष्टाऽस्मीति निवर्त्तते इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात्?, कुतो वा दृष्टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात्?, अचेतनायास्तद्विकल्पासम्भवात्, नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात्। 0 अन्यो (मु०)। ॐ ततश्च प्रकृतिः (प्र०) / / / 396 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy