________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 395 // सूत्रम् 168 कुमार्गपरित्यागः आज्ञायां तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानं- उद्यमो येषां ते निरुपस्थाना:- सर्वज्ञप्रणीतसदाचारानुष्ठानविकला: श्रुतस्कन्धः१ एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनंच द्वयमपिते तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति।सुधर्मस्वामी स्वमनीषिका- पञ्चममध्ययन लोकसारः, परिहारार्थमाह- एतद् यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोपस्थानत्वमित्येतत् कुशलस्य तीर्थकृतो षष्ठोद्देशकः दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह- कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यम्, तस्य- आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्त्तितव्यम्, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य- आचार्यस्य / तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्यं सर्वकार्येषु पुरः करोतीति तत्पुरस्कार:-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, रागद्वेषहानिश्च तथा तत्संज्ञी- तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:- सदा गुरुकुलनिवासी // 167 // स एवंभूतः किंगुणः स्यादित्याह अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा / / सूत्रम् 168 // अभिभूय पराजित्य परीषहोपसर्गान् घातिकर्मचतुष्टयंवा तत्त्वमद्राक्षीत्, किंच-नाभिभूतोऽनभिभूतः अनुकूलप्रतिकूलोपसर्ग: परतीर्थिकैर्वा, स एवम्भूतः प्रभुः समर्थो निरालम्बनताया:- नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्वचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनाया: समर्थो भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति? इत्येवं पृष्टे तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह- यः पुरस्कृतमोक्षो महान् महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते बहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवर्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह- प्रकृष्टो वादःप्रवादः- आचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवाद सर्वज्ञोपदेशं जानीयात् परिच्छिन्द्यादिति / // 395