________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ // 394 // ज्ञानात्मनोश्चैकत्वे यद्भवति तद्दर्शयितुमाह- तं ज्ञानपरिणामं प्रतीत्य आश्रित्यात्मा तेनैव प्रतिसङ्ख्यायते व्यपदिश्यते, तद्यथाइन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह- एषः अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमितया वा पर्याय: संयमानुष्ठानरूपो व्याख्यातः // 166 // इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / / लोकसाराध्ययने पञ्चमोद्देशकः॥ श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, षष्ठोद्देशकः सूत्रम् 167 कुमार्गपरित्यागः रागद्वेषहानिश्च ॥पञ्चमाध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके ह्रदोपमेनाचार्येण भाव्यमिइत्येतदुक्तम्, तथाभूताचार्यसंपर्काच्च कुमार्गपरित्यागोरागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रं अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे॥सूत्रम् 167 // इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभिधानम्, अनाज्ञा-अनुपदेश: स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा एके इन्द्रियवशगा दुर्गतिं जिगमिषव: स्वाभिमानग्रहग्रस्ता:सह उपस्थानेन-धर्माचरणाभासोद्यमेन वर्तन्त इति सोपस्थानाः, किल वयमपि प्रव्रजिता:सदसद्धर्मविशेषविवेकविकला: सावद्यारम्भतया प्रवर्तन्ते, एके तु न कुमार्गवासितान्त:करणाः, किन्तु आलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, // 394 //