________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 393 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, पञ्चमोद्देशकः सूत्रम् 166 सदाचार स्वरूप जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया, तं पडुच्च पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए। सूत्रम् १६६॥त्तिबेमि // 5-5 // य आत्मा नित्य उपयोगलक्षण: विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकम्, यश्च विज्ञातापदार्थानां परिच्छेदक उपयोग: आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति / ज्ञानात्मनोरभेदाभिधानाबौद्धाभिमतं ज्ञानमेवैकं स्यादिति चेत्, तन्न, भेदाभावोऽत्र केवलं चिकीर्षितो नैक्यम्, एतदेवैक्यं यो भेदाभाव इति चेद्, वार्तमेतत्, तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापत्ति: स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु कानोहानिः?, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावेतद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मकतया विनाशेऽप्यपरामूर्त्तत्वासङ्खयेयप्रदेशताऽगुरुलघ्वादिधर्मसद्भावादविनाश एवेत्यलं प्रसङ्गेन / ननु चय आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कर्तृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्, तथाहि-तत्करणं क्रिया वा भवेद्?, यदि करणं तद्दात्रादिवद्भिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भेदसम्भवे कुत ऐक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह- येन मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं- सामान्यविशेषाकारतया वस्तु जानाति विजानाति स आत्मा, न तस्मादात्मनो भिन्नं ज्ञानम्, तथाहि-नकरणतया भेदः, एकस्यापिकर्तृकर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको ह्यभेदो भवताऽप्यभ्युपगत एव, अपि च-भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत इत्यादिनैकत्वमेवेति / // 393 //