SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 392 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, पञ्चमोद्देशकः सूत्रम् 165 सदाचार स्वरूप एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि, तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवति-नात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपितु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च पश्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनि:श्वासमथान्यदायुः / प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा // 1 // न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह- त्वमपि नाम स एव यंप्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपदावयितव्यमिति मन्यसे असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्त्वमेवासौ, एवं मृषावादादावप्यायोज्यम् / यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं तत: किमित्याह- अञ्जु रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य- हन्तव्यघातकैकत्वस्य प्रतिबोध: प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुंशीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेवैतत्परिज्ञानेन जीवति नापर इत्युक्तं भवति। यदि नामैवं तत: किमित्याह- तस्माद् हन्यमानस्यात्मन इव महढुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नाप्यपरैर्घातयेत् / न च घ्नतोऽनुमन्येत, किंच-संवेदनं- अनुभवनं अनु- पश्चात्संवदेनं केन?-आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्- नाभिलषेत् // 165 // ननु चात्मनाऽनुसंवेदनमित्युक्तम्, संवेदनं च सातासातरूपम्, तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह // 392 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy