________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 391 / / श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, पञ्चमोद्देशकः सूत्रम् 165 सदाचारस्वरूपः कुरु / किमवलम्ब्येत्याह- इत्येवं पूर्वोक्तेन प्रकारेण तत्र तस्मिन् संयमे सन्धिः कर्मसन्ततिरूपो झोषितः क्षपितो भवति, यदि संयमे सम्यग्भावेवोत्प्रेक्षणंस्यात्, नान्यथेति।सम्यगुत्प्रेक्षमाणस्य च यत्स्यात्तदाह-से तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायांवा या गतिर्भवति- या पदवी भवति तांसमनुपश्यत यूयम्, तद्यथा-सकललोकश्लाघ्यता दर्शनस्थैर्य चारित्रनिष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात्, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं-सकलजनोपहास्यरूपामधमस्थानगति वा पश्यतेति तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविधाचारसारे प्रक्रमितव्यम्, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याहअत्रापि असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत्, बालानुष्ठानविधायी मा भूदिति यावत्, तथाहि-बाला:शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्तिच-नित्यत्वादमूर्त्तत्वाच्चात्मन:प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात्, एवमात्मनोऽपि शरीरविकारेऽविकारित्वम्, उक्तं च- न जायते न म्रियते कदाचिन्नायं भूत्वा भविता इति / नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥ अच्छेद्योऽयमभेद्योऽयमविकारी स उच्यते / नित्यः सततग: स्थाणुरचलोऽयं सनातनः // 2 // // 164 // इत्याद्यध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह तुमंसि नाम सच्चेवजहंतव्वंति मन्नसि, तुमंसि नाम सच्चेवजं अज्जावेयव्वंति मनसि, तुमंसि नाम सच्चेवजंपरियावेयव्वंति मन्नसि, एवं जं परिघित्तव्वंति मनसि, जं उद्देवेयंति मनसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए।।सूत्रम् 165 // // 391 //