________________ श्रुतस्कन्ध:१ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 390 // लोकसारः, पञ्चमोद्देशकः सूत्रम् 164 सदाचारस्वरूप: लयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यम्, तथाहि -8 यद्यनेकप्रदेशातिक्रमणं सामयिकं न भवेत्, ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्खयेयसमयातिक्रमणीयं स्यात्, तथा च सति दृष्टेष्टबाधाऽऽपद्यतेति यत्किञ्चिदेतत् ४।साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षयापर्या-2 लोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचित्प्राण्युपमर्दवत् 5 / साम्प्रतमेतद्विपर्ययमाह- असम्यगिति किञ्चिद्वस्तु मन्यमानस्य शङ्का स्यादर्वाग्दर्शितया छदास्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोत्प्रेक्षया, असम्यक्पर्यालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, यद्यथा शयेत्तत्तथैव समापद्येते ति वचनादिति 6 / यदिवा समियंति मन्नमाणस्सइत्याधन्यथा व्याख्यायते-शमिनो भावः शमिता इति: उपप्रदर्शने तामेतांशमितां मन्यमानस्य शुभाध्यवसायिनः एकदे त्युत्तरकालमपि शमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्यतुशमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति / तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः- पर्यालोचयन्नपरमनुत्प्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्रूयाद्, यथा- उत्प्रेक्षस्व पर्यालोचय सम्यग्भावेन / माध्यस्थ्यमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामियाहोश्चिन्नेत्यक्षिणी निमील्य चिन्तयेति भावः। यदिवा उत्प्रेक्षमाणः संयममुत्- प्राबल्येनेक्षमाण:- संयमे उद्यच्छन्ननुत्प्रेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुत्प्रेक्षस्व-संयमे उद्योग कुरु। किमवलम्ब्येत्याह- इत्येवं पूर्वोक्तेन प्रकारेण तत्र तस्मिन् संयमे सन्धिः कर्मसन्ततिरूपो झोषित: क्षपितो भवति, यदि // 390 //