SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 389 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, पञ्चमोद्देशकः सूत्रम् 164 सदाचारस्वरूपः कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमते: एकदेति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि- असौ सर्वनयसमूहाभिप्रायतया अनन्तधर्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं नित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि- अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम्, अतोऽन्यत्प्रतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति, न पुनर्विवेचयति, यथा अनन्तधर्माध्यासितंवस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति,उक्तंच-सर्वैर्नयैर्नियतनैगमसङ्ग्रहाद्यैरेकैकशो विहिततीर्थिकशासनैर्यत् / निष्ठां गतं बहुविधैर्गमपर्ययैस्तत्, श्रद्धेयमेव वचनं न तु हेतुगम्यम्॥१॥इत्यादि, यतो हेतुः प्रवर्त्तमानः एकनयाभिप्रायेण प्रवर्तेत, एकंच धर्मं साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति 2 // पुनरपि विचित्रभावनामाह कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य एकदे ति मिथ्यात्वपरमाणूपशमतयाँ शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम्, अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति 3 / कस्यचित्त्वागमापरिमलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेतिकुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहिचतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणो: स्यात्, प्रदेशयोर्लोकान्तद्वयगतयोर्वैक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा- विस्रसापरिणामेन शीघ्र0 पर्ययैस्तेः (मु०)। 0 प्रवर्तते (प्र०)। 0 मिथ्यात्वपरिणामोपशमतया (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy