SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्ति| श्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 388 // सदाचार धारेमाणे आणाए आराहए भवतिकिंचान्यत्? वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित्! यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् / श्रुतस्कन्धः१ ॥१॥इत्यादि॥१६३॥सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह- पश्चिममध्ययनं लोकसारः, सविस्सणंसमणुन्नस्स संपवयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ 1, समियंति मन्नमाणस्स एगया असमिया होइ पञ्चमोद्देशकः 2, असमियंति मन्नमाणस्स एगया समिया होइ 3, असमियंति मन्नमाणस्स एगया असमिया होइ 4, समियंति मन्नमाणस्स समिया सूत्रम् 164 वा असमिया वासमिआ होइ उवेहाए 5, असमियंति मन्नमाणस्ससमिया वा असमिया वा असमिया होइ उवेहाए 6, उवेहमाणो अणुवेहमाणं बूया-उवेहाहि समियाए, इच्चेवंतत्थ संधी झोसिओ भवइ, से उट्ठियस्स ठियस्स गईसमणुपासह, इत्थवि बालभावे ___ अप्पाणं नो उवदंसिज्जा ॥सूत्रम् 164 // श्रद्धा- धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य समनुज्ञस्य संविग्नविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणैः प्रव्रज्याहस्य संप्रव्रजतःसम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्सा-शङ्का वा भवेत्, तत्र तस्यसम्यग्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्ट-3 व्यम्, यथा-तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येवं यथोपदेशं / प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्न्यूनता तदभावो वा स्यादित्येवंरूपां विचित्रपरिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्कं यज्जिनै: प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य एकदा इत्युत्तरकालमपि शङ्काकाङ्क्षाविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शङ्काद्युत्पद्यत इति 1 / कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य - मनो धारयन् आज्ञाया आराधको भवति / 0 शङ्का भवेत् तत्रैतस्य (मु०)। Oमुपदेष्टं तथा तदेव (प्र०)। // 388 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy