________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // समयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे। श्रुतस्कन्धः 1 मार्याद्युपशमनात्, सौम्यः सर्वजनमनोनयनरमणीय, गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे प्रथममध्ययनं शस्त्रपरिज्ञा, योग्यो भवति // तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि-व्याख्याङ्गानि भवन्ति, तद्यथा- उपक्रमो निक्षेपोऽनुगमो प्रथमोद्देशकः नयश्च तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः-व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, स। अनुयोगद्वाराणि च शास्त्रीयलौकिकभेदाद् द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्तव्यताऽर्थाधिकारः समवतारश्चेति षोढा, लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोदैव / निक्षेपणमनेनास्मादस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, सच त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्याभिधानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादिविशेषाभिधाननामादिन्यासः, सूत्रालापकनिष्पन्नश्च सूत्रालापकानांनामादिन्यसनमिति / अनुगमनमनेनास्मादस्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, स च द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्चेति, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घातनिर्युक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा उद्देसे णिद्देसे या णिग्गमे खेत्तकालपुरिसे य / कारणपञ्चयलक्खण णए समोयारणाऽणुमए॥१॥ किं कतिविहं कस्स कहिं केसु कह केच्चिरं हवइ कालं। // 5 // सर्वजननयनमनोरमणीयः (मु०)10 नयः (मु०)10 उद्देशो निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च / कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् // 1 // किं कतिविधं कस्य क केषु कथं कियचिरं भवति कालम्।