SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 6 // कइ संतरमविरहियं भवागरिस फासणणिरुत्ती॥२॥ सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनम्, |श्रुतस्कन्धः१ सच सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति / अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण प्रथममध्ययनं शस्त्रपरिज्ञा, नयन्ति परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति / साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां / प्रथमोद्देशक यथायोगं किञ्चिद् बिभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थ प्रेक्षापूर्वकारिणांच प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्ति: 1 नियुक्तिकारो गाथामाह सम्बन्धाभिव्यादिः ___नि०- वंदित्तु सव्वसिद्धे जिणे अ अणुओगदायए सवे / आयारस्स भगवओ निजृत्तिं कित्तइस्सामि // 1 // तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनम्, नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदि अभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी। धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं मातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादकम्, तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्यः, रागद्वेषजितो जिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्त्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, वन्दित्वे ति क्त्वाप्रत्ययस्यो // 6 // त्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-आचारस्य यथार्थनाम्नः भगवत इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चये4- कति सान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः // 2 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy