________________ श्रीआचाराड़ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 4 // प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः अनुयोगः मिकादिभावैः, तेषां चानुयोगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयम्, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् केनेति द्वारं विवियते, तथोपक्रमादीनिच द्वाराणि प्रचुरतरोपयोगित्वात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन?, यथाभूतेन च सूरिणा व्याख्या कर्तव्या तथा प्रदर्श्यते देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी / अविकत्थणो अमाई थिरपरिवाडी गहियवक्को // 1 // जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू / आसन्नलद्धपइभो णाणाविहदेसभासण्णू // 2 // पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू / आहरणहेउकारणणयणिउणो गाहणाकुसलो // 3 // ससमयपरसमयविऊ गंभीरो दित्तिम सिवो सोमो / गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं // 4 // आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणम्, पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी जातिस्तत्संपन्नो विनयादिगुणवान् भवति, यत्राकृतिस्तत्र गुणा वसन्ती ति रूपग्रहणम्, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनो हितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् राजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषु समचित्तो भवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्नलब्धप्रतिभो द्राक् परवाछुत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानादेशजाः शिष्याः सुखं व्याख्यामवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावद् ज्ञापयिष्यति, हेतूदाहरणनिमित्तनयप्रपञ्चज्ञोऽनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, स्वसमयपर®नानाविधदेशजा: शिष्या: व्याख्यानं सुखमवभोत्स्यन्ते (मु०)। // 4 //