________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 3 // नवमाध्ययनेऽवसानसूत्रं अभिनिव्वुडे अमाई आवकहाए भयवं समियासी अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेदाविप्रति- श्रुतस्कन्धः 1 पत्त्याध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादने प्रथममध्ययन शस्त्रपरिज्ञा, नैवाध्ययनानामपि मगलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गलम्, ज्ञानरूपत्वात्, ज्ञानस्य च निर्जरार्थत्वात्, प्रथमोद्देशकः निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तं जं अन्नाणी कम्मखवेइ बहुयाहि वासकोडीहिं / तं नाणी तिहिँ गुत्तो खवेइ उस्सासमित्तेणं अनुयोगः // 1 // (बृ०क०भा०११७०) मङ्गलशब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलम्, मा भूगलो विघ्नो गालो वा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारादिकमन्यतोऽवसेयमिति / साम्प्रतमाचारानुयोगः प्रारभ्यते- आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादुनुपश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽणुयोगः, सचामीभिद्वारैरनुगन्तव्यः, तद्यथा निक्खेवेगट्ठनिरुत्तिविहिपवित्ती य केण वा कस्स / तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो // 1 // तत्र निक्षेपो-नामादिः / सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा- आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतव्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रव्यस्य-आत्मपरमाण्वादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोगः कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगमतस्तु औपश- // 3 // Oकन्दोच्छेद्यविप्रतिपत्याध्यान० (मु०)। 0 प्रतिशिष्येति (प्र०)। यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः / तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण // 1 // 0 योगोऽनुयोगः (मु०)।